|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.76. अध्यायः 076
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ब्राह्मणानां निषिद्धकर्मकथनम् राजधर्मकथनं च॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-76-0x(5534)(67809)
स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि।
तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह॥ 12-76-1(67810)
भीष्म उवाच। 12-76-2x(5535)
विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः।
एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः॥ 12-76-2(67811)
ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्ववस्थिताः।
एते देवसमा राजन्ब्राह्मणानां भवन्त्युत॥ 12-76-3(67812)
`गोऽजाविमहिषाणां च बडवानां च पोषकाः।
वृत्त्यर्थं प्रतिपद्यन्ते तान्वैश्यान्संप्रचक्षते॥ 12-76-4(67813)
ऐश्वर्यकामा ये चापि सामिपा वाऽपि भारत।
निग्रहानुग्रहरतांस्तान्द्विजान्क्षत्रियान्विदुः॥ 12-76-5(67814)
अश्वारोहा गजारोहा रथिनोऽथ पदातयः।
एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत॥ 12-76-6(67815)
जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः।
एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत॥ 12-76-7(67816)
अश्रोत्रियाः सर्वे एते सर्वे चानाहिताग्नयः।
तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत्॥ 12-76-8(67817)
आह्वायका देवलका नाक्षत्रा ग्रामयाजकाः।
एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः॥ 12-76-9(67818)
[ऋत्विक्पुरोहितो मन्त्री दूतो वार्तानुकर्षकः।
एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत॥] 12-76-10(67819)
`म्लेच्छदेशाश्च ये केचित्पापैरध्युषिता नरैः।
गत्वा तु ब्राह्मणस्तांश्च चण्डालः प्रेत्य चेह च॥ 12-76-11(67820)
व्रात्यान्म्लेच्छांश्च शूद्रांश्च याजयित्वा द्विजाधमः।
अकीर्तिमिह संप्राप्य नरकं प्रतिपद्यते॥ 12-76-12(67821)
महावृन्दसमुद्राभ्यां पर्यायेणैकविंशतिम्।
ब्राह्मणो ऋग्यजुः साम्नां मूढः कृत्वा तु विप्लवम्॥ 12-76-13(67822)
कल्पमेकं कृमिस्थोऽथ नानाविष्ठासु जायते।
व्रात्ये म्लेच्छे तथा शूद्रे तस्करे पत्तितेऽशुचौ॥ 12-76-14(67823)
कुदेशे च सुरापे च ब्रह्मघ्ने वृषलीपतौ।
अनधीतेषु सर्वत्र भुञ्जाने यत्र तत्र वा॥ 12-76-15(67824)
वालस्त्रीवृद्धहन्तुश्च मातापित्रोर्गुरोस्तथा।
मित्रद्रुहि कृतघ्ने च गोघ्ने चैव कथंचन॥ 12-76-16(67825)
पुत्रघातिनि शत्रौ च न मन्त्राद्याजयेद्द्विजः।
स तेषां विप्लवः प्रोक्तो मन्त्रविद्भिः सनातनैः॥ 12-76-17(67826)
यदि विप्रो विदेशस्थस्तीर्थयात्रां गतोऽपि वा।
यदि भीतः प्रपन्नो वा कुदेशं शौचवर्जितम्॥ 12-76-18(67827)
सुसयतः शुचिर्भुत्वा मन्त्रानुच्चारयेद्द्विजः।
आर्तश्चोच्चारयेन्मन्त्रमार्तत्राणपरोऽथवा।
हीनेष्वपि प्रयुञ्जानो नासौ विप्लावकः स्मृतः॥ 12-76-19(67828)
क्रूरकर्मा विकर्मा वा कर्मभिर्वञ्चितोऽथवा।
तत्त्ववित्तरते पापं शीलवान्सयतेन्द्रियः॥ ' 12-76-20(67829)
एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः।
ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च॥ 12-76-21(67830)
अब्राह्मणानां वित्तस्य स्वामी राजेति नः श्रुतिः।
ब्राह्मणानां च येकेचिद्विकर्मस्था इति श्रुतिः।
`प्रागुक्तांश्चाप्यनुक्तांश्च सर्वास्तान्दापयेत्करान्' 12-76-22(67831)
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन।
नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया॥ 12-76-23(67832)
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः।
राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः॥ 12-76-24(67833)
अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा।
राजन्स राज्ञा भर्तव्य इति वेदविदो विदुः॥ 12-76-25(67834)
स चेन्नापि निवर्तेत कृतवृत्तिः परन्तप।
ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः॥ 12-76-26(67835)
`यज्ञः श्रुतमपैशुन्यमर्हिसाऽतिथिपूजनम्।
दमः सत्यं तपो दानमेतद्ब्राह्मणलक्षणम्॥' ॥ 12-76-27(67836)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट्सप्ततितमोऽध्यायः॥ 76॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-76-3 ऋग्यजुःसामसंपन्नाः इति झ. पाठः॥ 12-76-7 जन्मकर्मजन्मोचितकर्म तेन विहीनाः॥ 12-76-8 बलिं करवानम्। विष्टिंविना वेतनं राजसेवाम्॥ 12-76-9 आह्वायका धर्माधिकारिणः। देवलका वेतनेन देवपूजाकर्तारः। महापथिकः समुद्रे नौयानेन गच्छन्। यद्वा महापथि शुल्कग्राहकः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|